॥ अथ अगस्त्यार्घ्य दानम् ॥
प्रातरर्घ्यदानात्पूर्वस्मिन्दिवसे व्रतनियन्वान्काशपुष्पायुपयोगि वस्तु संग्रह्य प्रदोषे काशपुष्पमयीं रम्यागस्त्यप्रतिमां विधाय सुलिप्तामां भूमौ चन्दनमालाविभूषितं पञ्चरत्नघृतपात्रसप्तधान्य समन्वितं कलशं कलशस्थापन विधिना संस्थाप्य। तत्र कलशे काशमयीमगस्त्यमूर्तिं सतिसम्भवे काञ्चनीं च संस्थाप्य नवग्रहांश्चावाह्य प्रतिष्ठाप्य पूजयेत् ॥ यथा गणपति पुष्पाञ्जलिं समर्पयेत्—
गणेशपुष्पाञ्जलि
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः। लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः। द्वादशै तानि नामानि यः पठेच्छृणुयादपि ॥
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा। सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्। प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥
अभिप्सितार्थ सिद्धयर्थं पूजितो यः सुरासुरैः। सर्वविघ्नहरस्तस्मै श्री गणाधिपतये नमः ॥
कलशपूजनम्
कलशपूजनम्– सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः। आयान्तु देव पूजार्थं दुरित क्षयकारकाः। कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः। मूले तस्यस्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तदीपा वसुन्धरा। ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः। अङ्गैश्च सहिताः सर्वे कलशं तु समाश्रिताः।
ततो वरुणआवाहनम्– अस्मिन् कलशे वरुणं साङ्गं सपरिवारं सायुधंसशक्तिकमावाहयामि।
ततः कलशप्रार्थना– देव दानव संवादे मध्यमाने महोदधौ उत्पन्नोसि तदा कुम्भ विधृतो विष्णुना स्वयम्। त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः। त्वयि तिष्ठन्तिभूतानि त्वयि प्राणाः प्रतिष्ठिताः। त्वत्प्रसादात् इमां पूजां कर्तुमीहे जलौद्भव। सान्निध्यं कुरु मे देव प्रसन्नो भव सर्वदा ॥
ॐ कलशस्थवरुणाय नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ॥
इति कलशं सम्पूज्य अर्घ्यं संस्थापयेत्।
अर्घ्यस्थापनम्
अर्घ्यस्थापन– भूमौ गन्धादिना त्रिकोणं वर्त्तुलं चतुरस्त्रं मण्डलं विलिख्य तदुपरि आसनं आसने पात्रं पात्रोपरि पवित्रम्।
ॐ पवित्रेस्थो वैष्णव्यौ सवितुर्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ॥ ( शन्नोदेवीति जलम् )
ॐ शन्नोदेवी रभिष्टयऽआपो भवन्तु पीतये शंय्योरभिस्रवन्तु नः ॥ ॐ गङ्गे च यमुने चैव गोदावरि सरस्वति। नर्मदे सिन्धु कावेरि जलेस्मिन्सन्निधिं कुरु ॥
इति तीर्थावाहनं कृत्वा अर्घ्यपात्रे यव जल गन्धपुष्पाक्षतादि तूष्णीं निक्षिप्य प्राणायामं विधाय ॐ पुण्डरीकाक्षाय नमः ॐ विष्णवे नमः ३ सूर्य्यं ध्यायेत् ॥
सूर्य ध्यानम्
अरुणोऽरुण पङ्कजे निषण्णः, कमले भीति वरौ करैर्दधानः स्वरुचा हितमण्डलस्त्रिनेत्रो रविराकल्प शताकुलोवतान्नः।
इति सूर्य ध्यात्वा अर्घ्यं दद्यात्।
ॐ नमोऽस्तु सूर्य्याय नमोस्तु भानवे नमोस्तु वैश्वानर जातवेदसे। ममैत मर्घं भगवन्गृहाण, देवाधि देवाय नमो नमस्ते ॥
इति अर्घ्य दत्त्वा सम्पूजयेत् ॐ भास्कर देवाय नमः ॐ आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्येन सबिता रथेना देवो याति भुवनानि पश्यन् इति गन्धाक्षत पुष्पाणि समर्प्य स्वगुरु नत्वाशर्षपाक्षतैः भूतोत्सादनं कुर्य्यात्—
ॐ अपसर्प्पन्तु ये भूता ये भूता भुविसंस्थिताः। ये भूताविघ्नकर्त्तारः ते गच्छन्तु शिवाज्ञया ॥ अपक्रामन्तु भूतानि पिशाचाः सर्व तो दिशम्। सर्वेषामविरोशेन पूजा कर्म्मसमारभे ॥ पाखस्ड कारिणो भूता भूमौ ये चान्तरिक्षगाः। दिविलोके स्थिता ये च ते नश्यन्तु शिवाज्ञया ॥ निर्गच्छतां तु भूतानां वर्त्म दद्यात् स्ववामतः ॥
पृथ्वित्वयेति मेरुष्पृष्ठऋषिः सुतलंछन्दः कूर्मोदेवता आसनोपवेशने विनियोगः ॥
ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
गन्धाक्षत पुष्पैः सम्पूज्य ॐ पृथिव्यै नमः ॐ वाराह्यै नमः ॐ कूर्म्माय नमः ॐ कमला सनाय नमः ॥
पूजा सङ्कल्पम्
ततः पूर्ववदर्घ संस्थाप्य गन्धाक्षत पुष्पादिभिः सम्पाद्यां कुशमुद्रया तीर्थावाहनं कृत्वा प्राणानायम्य।
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत् पुण्डरीकाक्षं सबाह्याभ्यन्तरः शुचिः ॥
पूजा सङ्कल्पं कुर्य्यात् ॥ ॐ विष्णुः ३ नमः परमात्मने अद्येहेत्यादि अमुकोहं शास्त्रोक्तफलावाप्तये अगस्त्यव्रतं करिष्ये तदङ्गतयाश्वः प्रातः करिष्यमाणार्घ्यदान पूर्वांङ्गत्वेन कलशावाहितस्य सपरिवारस्य श्रीअगस्त्यमुनेः षोडशोपचारैः पूजनं करिष्ये ॥ ॐ एतन्तेत्यादिना प्रतिष्ठां तथा ॐ आमित्यादिना प्राणप्रतिष्ठां च विधाय ध्यायेत्।
श्री अगस्त्य मुनि ध्यानम्
पुरुषाकृतिकं शान्तं जटामुकुटमण्डितम्। कमण्डलु करंशिष्यैर्मृगैश्च परिवारितम् ॥
मृत्युघ्नं विषहन्तारं इष्टदं स्त्रग्धरंमुनिम् ॥ ध्यायेदगस्त्यं ब्रह्मर्षि ध्यातॄणां अभयंकरम्।
ॐ अगस्त्यर्षये नमः इति नाम मन्त्रेण ॐ अगस्त्यः खनमानः खनित्रैः प्रजापत्यं बलमीद्ध्यमाणः उभावर्णावृषिरुग्रः पुपोष सत्यादेवेष्वाशिषो जगाम ॥ योगाय योग पतये योगसम्भवाय अगस्त्याय नमो नमः। इति वैदिक मन्त्रेण च १ आवाहनं, २ आसनं, ३ पाद्यं, ४ अर्घ्यं, ५ आचमनीयं, ६ स्नानं, ७ वस्त्रं, ८ यज्ञोपवीतं, ९ गन्धं १० पुष्पाणि, ११ धूपं, १२ दीपं, १३ नैवेद्यं, १४ प्रदक्षिणाः १५ नमस्कारं १६ मन्त्रपुष्पाञ्जलि च समर्प्य दध्यक्षतैर्बलि च दत्त्वा रात्रौजागरणं कुर्य्यात्।
प्रातः अर्घ्यदान विधिः
ततः प्रभाते नित्य स्नानं विधाय सकलशं अगस्त्यं पुण्यजलाशये नीत्वा जलान्ते संस्थाप्य पुनः पूर्ववत् पूजां विधाय देशकालोद्भवानि फलपुष्पाणिसमर्प्य नीराजनान्तं विधाय अर्घ्यदान सङ्कल्पं कुर्य्यात्–
ॐ विष्णुः३ अद्येहेत्यादि अमुकोहं यथोक्तफलावाप्तये श्री अगस्त्यर्षः प्रीतये अर्घ्यप्रदानं करिष्ये।
शंखताम्राद्यन्यतमेऽर्घ्यपात्रे नालिकेरकूष्माण्डखर्जूरादि देशकालोद्भवानि फलानिपुष्पाणि च जलदुग्धकुशदूर्वाचन्दनाक्षतादि चनिक्षिप्य नम्रेणमुर्ध्नादायजानुभ्यां अवनीं गत्वा दक्षिणाभिमुखोऽगस्त्य मूर्तिं सम्पश्यन् वक्ष्यमाणैमन्त्रैश्चतुः कृत्वोऽर्घ्यं दद्यात् ॥
अर्घ्य मन्त्र
ॐ अगस्त्यः खनमानः खनित्रैः प्रजापत्यं बलमीद्ध्यमाणः उभावर्णा वृषिरुग्रः पुपोष सत्यादेवेष्वाशिषो जगाम। योगाय योगपतये योगसम्भवाय अगस्त्याय नमो नमः ॥
कांश पुष्पप्रतीकाशवह्निमारुत सम्भव। मित्रा वरुणयोः पुत्र कुम्भयोने नमोस्तु ते ॥
विन्ध्यवृद्धि क्षयकरमेघ तोय विषापह। रत्नवल्लभ देवर्षे लङ्कावास नमोस्तु ते ॥
वातापिभक्षतोयेन समुद्रः शोषितः पुरा। लोपामुद्रापतिः श्रीमान् योसौ तस्मै नमो नमः।
ये नोदितेन पापानि विलयं यान्ति व्याधयः। तस्मै नमोस्त्वगस्त्याय सशिष्याय सुपुत्रिणे ॥
शंखं पुष्पं फलं तोयं रत्नानि विविधानि च। उदितोसि लङ्काद्वारे अर्घ्यं नः प्रति गृह्यताम् ॥
इति अगस्त्याय दत्त्वा तत्पत्न्यै दद्यात्।
राजपुत्रि महाभागे ऋषिप्रत्नि वरानने। लोपामुद्रे नमस्तुभ्यं अर्घ्यं मे प्रतिगृह्यताम् ॥
इत्यर्घ्यदानम् ॥
अथ विसर्जनम् एवं प्रतिमा दानम्
अथ विसर्जनम् ॥ अर्चितस्त्वं यथा शक्त्या नमोऽगस्त्यमहर्षये। ऐहि कामुष्मिकीं दत्त्वा कार्यसिद्धिं व्रजस्य मे ॥
अथसकलश प्रतिमा दानम्— ॐ विष्णुः३ अद्येहेत्यादि अमुकोहं यथोक्तफलावाप्तये कृतस्यागस्त्यार्घ्यदानस्य सांगतासिद्धये इमां सुपूजितां अगस्त्यप्रतिमां कलशवस्त्रायुपस्करसहितां ब्राह्मणाय दास्ये ॥ ब्राह्मणं सम्पूज्य दद्यात्।
- ब्राह्मणार्घ्यः– भूमिदेवाग्रजन्मासि त्वं विप्र पुरुषोत्तम। प्रत्यचो यज्ञपुरुष अर्घ्योयं प्रतिगृह्यताम् ॥
- ब्राह्मणतिलक–गन्धः द्वारां दुराधर्षां नित्य पुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहो पह्वये श्रियम्।
- पुष्पम्– नमो ब्रह्मण्य देवाय गो ब्राह्मण हिताय च। जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥
- पुनरर्घ्यः— अर्चनविधेः सर्वापरिपूर्णतास्तु अस्तु परिपूर्णताम्
- दानवाक्यम्– अगस्त्यो मे मनःस्थोस्तु अगस्त्योस्मिन्घटे स्थितः। अगस्त्यो द्विजरूपेण प्रतिगृह्णातु सत्कृतः ॥
- प्रतिग्रहमन्त्रः— अगस्त्यः सप्तजन्माघं नाशयत्वां वयोरयम्। अतुलं विमलं सौख्यं प्रयच्छ त्वं महामुने ॥
सतिसम्भवे वैदिकार्घ्यदानमन्त्रेण आज्यहोमं कृत्वा वर्षपर्यन्तमेकं धान्यं फलं रसं वस्त्रं वा त्यजेत् द्वितीय वर्षे द्वितीयं धान्यादिकं एवं तृतियादि सप्तवर्षपर्यन्तं एकैकं धान्यादिकं त्यक्त्वा उद्यापनं आचरेत्। तत्र पयस्विनीं गां ससुवर्णां ब्राह्मणाय दत्त्वा अन्ते ब्राह्मणं भोजयेत् इति ॥
अथ सप्तधान्यादिकारिकः
धान्य सप्तकम्
ब्रीहयो, यव, गोधूम, माष, मुद्ग, प्रियङ्गवः, श्यामाक (सप्तमं प्रोक्तं)
फल सप्तकम्
कूष्माण्ड, नालिकेरं, वीजपूरं, कपित्थकम्, कदली, कर्कटी, दाडिमं
रस सप्तकम्
पयो (दूध), दधि, घृतं, क्षौद्रं (शहद), लवणं, गुडम्, तैलं
वस्त्र सप्तकम्
क्षौमं, शाणं, ऊर्णं (ऊन), वृक्षत्वग्भव, कार्पासं, अजिनं, कौशेयं
व्रताकरणपक्षेपि प्रातः सद्यएव कलशादि संस्थाप्य अर्घ्यदानं कार्यमेवच।


