अथ श्री अच्युताष्टकं ।।
अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ||
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ||१||
अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् ||
इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दनं संदधे ||२||
विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मिनीरागिणे जानकीजानये ||
वल्लवीवल्लभायाऽर्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ||३||
कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ||
अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ||४||
राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः ||
लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसंपूजितो राघवः पातु माम् ||५||
धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां केशिहा कंसहृद्वंशिकावादकः ||
पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु माम् सर्वदा ||६||
विद्युदुद्धयोतवानप्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ||
वन्यया मालया शोभितोरःस्थलं लोहितांघ्रिद्वयं वारिजाक्षं भजे ||७||
कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत् कुण्डलं गण्डयोः ||
हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ||८||
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् |
वृत्ततः सुंदरं कर्तृ विश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम् ||९||
।। इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ।।